horizontal rule

欢迎访问本站。

Vajracchedika Prajna Paramita 05 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

भगवानाह-तत्किं मन्यसे सुभूते-अस्ति स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हत-सम्यक्संबुद्धस्यान्तिकादुद्गृहीतः? सुभूतिराह- नो हीदं भगवन्। नास्ति स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकादुद्गृहीतः॥

भगवानाह-यः कश्चित्सुभूते बोधिसत्त्व एवं वदेत्-अहं क्षेत्रव्यूहान् निष्पादयिष्यामीति, स वितथं वदेत्। तत्कस्य हेतोः ? क्षेत्रव्यूहाः क्षेत्रव्यूहा इति सुभूते अव्यूहास्ते तथागतेन भाषिताः। तेनोच्यन्ते क्षेत्रव्यूहा इति। तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन एवमप्रतिष्ठितं चित्तमुत्पादयितव्यं यन्न क्वचित्प्रतिष्ठितं चित्तमुत्पादयितव्यम्। न रूपप्रतिष्ठितं चित्तमुत्पादयितव्यं न शब्दगन्धरसस्प्रष्टव्यधर्मप्रतिष्ठितं चित्तमुत्पादयितव्यम्। तद्यथापि नाम सुभूते पुरुषो भवेदुपेतकायो महाकायो यत्तस्यैवं रूप आत्मभावः स्यात् तद्यथापि नाम सुमेरुः पर्वतराजः। तत्किं मन्यसे सुभूते अपि नु महान् स आत्मभावो भवेत् ? सुभूतिराह-महान् स भगवान्, महान् सुगत स आत्मभावो भवेत्। तत्कस्य हेतोः ? आत्मभाव आत्मभाव इति भगवन् न भावः स तथागतेन भाषितः। तेनोच्यत आत्मभाव इति। न हि भगवन् स भावो नाभावः। तेनोच्यते आत्मभाव इति॥१०॥



भगवानाह- तत्किं मन्यसे सुभूते-यावत्यो गङ्गायां महानद्यां वालुकास्तावत्य एव गङ्गानद्यो भवेयुः ? तासु या वालुकाः, अपि नु ता बह्वयो भवेयुः ? सुभूतिराह-ता एव तावद्भगवन् बह्वयो गङ्गानद्यो भवेयुः, प्रागेव यास्तासु गङ्गानदीषु वालुकाः। भगवानाह- आरोचयामि ते सुभूते, प्रतिवेदयामि ते। यावत्यस्तासु गङ्गानदीषु वालुका भवेयुस्तावतो लोकधातून् कश्चिदेव स्त्री वा पुरुषो वा सप्तरत्नपरिपुर्णं कृत्वा तथागतेभ्योऽर्हद्भयः सम्यक्संबुद्धेभ्यो दानं दद्यात्, तत् किं मन्यसे सुभूते-अपि नु सा स्त्री वा पुरुषो वा ततोनिदानं बहु पुण्यस्कन्धं प्रसुनुयात् ? सुभूतिराह-बहु भगवन्, बहु सुगत स्त्री वा पुरुषो वा ततोनिदानं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम्। भगवानाह- यश्च खलु पुनः सुभूते स्त्री वा पुरुषो वा तावतो लोकधातून् सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भयः सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च कुलपुत्रो वा कुलदुहिता वा इतो धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो देशयेत् संप्रकाशयेत्, अयमेव ततोनिदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम्॥११॥



अपि तु खलु पुनः सुभुते यस्मिन् पृथिवीप्रदेशे इतो धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथामुद्गृह्य भाष्येत वा संप्रकाश्येत वा, स पृथिवीप्रदेशश्चैत्यभूतो भवेत् सदेवमानुषासुरस्य लोकस्य, कः पुनर्वादो ये इमं धर्मपर्यायं सकलसमाप्तं धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति। परमेण ते सुभूते आश्चर्येण समन्वागता भविष्यन्ति। तस्मिंश्च सुभूते पृथिवीप्रदेशे शास्ता विहरत्यन्यतरान्यतरो वा विज्ञगुरुस्थानीयः॥१२॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-को नाम अयं भगवन् धर्मपर्यायः, कथं चैनं धारयामि ? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- प्रज्ञापारमिता नामायं सुभूते धर्मपर्यायः। एवं चैनं धारय। तत्कस्य हेतोः ? यैव सुभूते प्रज्ञापारमिता तथागतेन भाषिता, सैव अपारमिता तथागतेन भाषिता। तेनोच्यते प्रज्ञापारमितेति॥



तत्किं मन्यसे सुभूते-अपि नु अस्ति स कश्चिद्धर्मो यस्तथागतेन भाषितः ? सुभूतिराह-नो हीदं भगवन्। नास्ति स कश्चिद्धर्मो यस्तथागतेन भाषितः॥

भगवानाह-तत्किं मन्यसे सुभूते-यावत् त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरजः कच्चित्, तद्बहु भवेत् ? सुभूतिराह-बहु भगवन्, बहु सुगत पृथिवीरजो भवेत्। तत्कस्य हेतोः ? यत्तद्भगवन् पृथिवीरजस्तथागतेन भाषितम्, अरजस्तद्भगवंस्तथागतेन भाषितम्। तेनोच्यते पृथिवीरज इति। योऽप्यसौ लोकधातुस्तथागतेन भाषितः, अधातुः स तथागतेन भाषितः। तेनोच्यते लोकधातुरिति॥



भगवानाह- तत्किं मन्यसे सुभूते द्वात्रिंशन्महापुरुषलक्षणैस्तथागतोऽर्हन् सम्यक्संबुद्धो द्रष्टव्यः ? सुभूतिराह-नो हीदं भगवन्। द्वात्रिंशन्महापुरुषलक्षणैस्तथागतोऽर्हन् सम्यक्संबुद्धो द्रष्टव्यः। तत्कस्य हेतोः ? यानि हि तानि भगवन् द्वात्रिंशन्महापुरुषलक्षणानि तथागतेन भाषितानि, अलक्षणानि तानि भगवंस्तथागतेन भाषितानि। तेनोच्यन्ते द्वात्रिंशन्महापुरुषलक्षणानीति॥



भगवानाह-यश्च खलु पुनः सुभूते स्त्री वा पुरुषो वा दिने दिने गङ्गानदीवालुकासमानात्मभावान् परित्यजेत्, एवं परित्यजन् गङ्गानदीवालुकासमान् कल्पांस्तानात्मभावान् परित्यजेत्, यश्च इतो धर्मपर्यायदन्तशश्चतुष्पादिकामपि गाथामुद्गृह्यपरेभ्यो देशयेत् संप्रकाशयेत्, अयमेव ततोनिदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम्॥१३॥



अथ खल्वायुष्मान् सुभूतिर्धर्मवेगेनाश्रूणि प्रामुञ्चत्। सोऽश्रूणि प्रमृज्य भगवन्तमेतदवोचत्-आश्चर्यं भगवन्, परमाश्चर्यं सुगत, यावदयं धर्मपर्यायस्तथागतेन भाषितोऽग्रयानसंप्रस्थितानां सत्त्वानामर्थाय, श्रेष्ठयानसंप्रस्थितानामर्थाय, यतो मे भगवन् ज्ञानमुत्पन्नम्। न मया भगवन् जात्वेवंरूपो धर्मपर्यायः श्रुतपूर्वः। परमेण ते भगवन् आश्चर्येण समन्वागता बोधिसत्त्वा भविष्यन्ति, ये इह सूत्रे भाष्यमाणे श्रुत्वा भूतसंज्ञामुत्पादयिष्यन्ति। तत्कस्य हेतोः ? या चैषा भगवन् भूतसंज्ञा, सैव अभूतसंज्ञा। तस्मात्तथागतो

भाषतेभूतसंज्ञा भूतसंज्ञेति॥

न मम भगवन् आश्चर्यं यदहमिमं धर्मपर्यायं भाष्यमाणमवकल्पयामि अधिमुच्ये। येऽपि ते भगवन् सत्त्वा भविष्यन्त्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे वर्तमाने, ये इमं भगवन् धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, ते परमाश्चर्येण समन्वागता भविष्यन्ति। अपि तु खलु पुनर्भगवन् न तेषामात्मसंज्ञा प्रवर्तिष्यते, न सत्त्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा प्रवर्तिष्यते, नापि तेषां काचित्संज्ञा नासंज्ञा प्रवर्तते। तत्कस्य हेतोः ? या सा भगवन् आत्मसंज्ञा, सैवासंज्ञा। या सत्त्वसंज्ञा जीवसंज्ञा पुद्गलसंज्ञा, सैवासंज्ञा। तत्कस्य हेतोः ? सर्वसंज्ञापगता हि बुद्ध भगवन्तः॥



एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत् सुभूते, एवमेतत्। परमाश्चर्यसमन्वागतास्ते सत्त्वा भविष्यन्ति, ये इह सुभूते सूत्रे भाष्यमाणे नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते। तत्कस्य हेतोः ? परमपारमितेयं सुभूते तथागतेन भाषिता यदुतापारमिता। यां च सुभूते तथागतः परमपारमितां भाषते, तामपरिमाणा अपि बुद्धा भगवन्तो भाषन्ते। तेनोच्यन्ते परमपारमितेति॥



अपि तु खलु पुनः सुभुते या तथागतस्य क्षान्तिपारमिता, सैव अपारमिता। तत्कस्य हेतोः ? यदा मे सुभूते कलिराजा अङ्गप्रत्यङ्गमांसान्यच्छैत्सीत्, नासीन्मे तस्मिन् समये आत्मसंज्ञा वा सत्त्वसंज्ञा वा जीवसंज्ञा वा पुद्गलसंज्ञा वा, नापि मे काचित्संज्ञा वा असंज्ञा वा बभूव। तत्कस्य हेतोः ? सचेन्मे सुभूते तस्मिन् समये आत्मसंज्ञा अभविष्यत्, व्यापादसंज्ञापि मे तस्मिन् समयेऽभविष्यत्। सचेत्सत्त्वसंज्ञा जीवसंज्ञा पुद्गलसंज्ञाभविष्यत्, व्यापादसंज्ञापि मे तस्मिन् समयेऽभविष्यत्। तत्कस्य हेतोः ? अभिजानाम्यहं सुभूते अतीतेऽध्वनि पञ्च जातिशतानि यदहं क्षान्तिवादी ऋषिरभूवम्। तत्रापि मे नात्मसंज्ञा बभूव, न सत्त्वसंज्ञा, न जीवसंज्ञा, न पुद्गलसंज्ञा बभूव। तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसंज्ञा विवर्जयित्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयितव्यम्। न रूपप्रतिष्ठितं चित्तमुत्पादयितव्यम्, न शब्दगन्धरसस्प्रष्टव्यधर्मप्रतिष्ठितं चित्तमुत्पादयितव्यम्, न धर्मप्रतिष्ठितं चित्तमुत्पादयितव्यम्, नाधर्मप्रतिष्ठितं चित्तमुत्पादयितव्यम्, न क्वचित्प्रतिष्ठितं चित्तमुत्पादयितव्यम्। तत्कस्य हेतोः ? यत्प्रतिष्ठितं तदेवाप्रतिष्ठितम्। तस्मादेव तथागतो भाषते-अप्रतिष्ठितेन बोधिसत्त्वेन दानं दातव्यम्। न रूपशब्दगन्धरसस्पर्शधर्मप्रतिष्ठितेन दानं दातव्यम्॥



अपि तु खलु पुनः सुभूते बोधिसत्त्वेन एवंरूपो दानपरित्यागः कर्तव्यः सर्वसत्त्वानामर्थाय। तत्कस्य हेतोः ? या चैषा सुभूते सत्त्वसंज्ञा, सैव असंज्ञा। य एवं ते सर्वसत्त्वास्तथागतेन भाषितास्त एव असत्त्वाः। तत्कस्य हेतोः ? भूतवादी सुभूते तथागतः, सत्यवादी तथावादी अनन्यथावादी तथागतः, न वितथवादी तथागतः॥

अपि तु खलु पुनः सुभूते यस्तथागतेन धर्मोऽभिसंबुद्धो देशितो निध्यातः, न तत्र सत्यं न मृषा। तद्यथापि नाम सुभूते पुरुषोऽन्धकारप्रविष्टो न किंचिदपि पश्येत्, एवं वस्तुपतितो बोधिसत्त्वो द्रष्टव्यो यो वस्तुपतितो दानं परित्यजति। तद्यथापि नाम सुभूते चक्षुष्मान् पुरुषः प्रभातायां रात्रौ सूर्येऽभ्युद्गते नानविधानि रूपाणि पश्येत्, एवमवस्तुपतितो बोधिसत्त्वो द्रष्टव्यो योऽवस्तुपतितो दानं परित्यजति॥



अपि तु खलु पुनः सुभूते ये कुलपुत्रा वा कुलदुहितरो वा इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, ज्ञातास्ते सुभूते तथागतेन बुद्धज्ञानेन, दृष्टास्ते सुभूते तथागतेन बुद्धचक्षुषा, बुद्धास्ते तथागतेन। सर्वे ते सुभूते सत्त्वा अप्रमेयमसंख्येयं पुण्यस्कन्धं प्रसविष्यन्ति प्रतिग्रहीष्यन्ति॥१४॥

 

相关阅读:prajñāpāramita-hṛdayam sūtra

Vajracchedika Prajna Paramita 15 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

感谢您访问本站。