horizontal rule

欢迎访问本站。

Vajracchedika Prajna Paramita 15 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

तत्किं मन्यसे सुभूते रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्यः ? सुभूतिराह-नो हीदं भगवन्। न रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्यः। तत्कस्य हेतोः ? रूपकायपरिनिष्पत्ती रूपकायपरिनिष्पत्तिरिति भगवन् अपरिनिष्पत्तिरेषा तथागतेन भाषिता। तेनोच्यते रूपकायपरिनिष्पत्तिरिति॥



भगवानाह- तत्किं मन्यसे सुभूते लक्षणसंपदा तथागतो द्रष्टव्यः ? सुभूतिराह-नो हीदं भगवान्। न लक्षणसंपदा तथागतो द्रष्टव्यः। तत्कस्य हेतोः ? यैषा भगवन् लक्षणसंपत्तथागतेन भाषिता, अलक्षणसंपदेषा तथागतेन भाषिता। तेनोच्यते लक्षणसंपदिति॥२०॥

भगवानाह- तत्किं मन्यसे सुभूते अपि नु तथागतस्यैवं भवति-मया धर्मो देशित इति ? सुभूतिराह-नो हीदं भगवन् तथागतस्यैवं भवति-मया धर्मो देशित इति। भगवानाह-यः सुभूते एवं वदेत्- तथागतेन धर्मो देशित इति, स वितथं वदेत्। अभ्याचक्षीत मां स सुभूते असतोद्गृहीतेन। तत्कस्य हेतोः ? धर्मदेशना धर्मदेशनेति सुभूते नास्ति स कश्चिद्धर्मो यो धर्मदेशना नामोपलभ्यते॥



एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-अस्ति भगवन् केचित्सत्त्वा भविष्यन्त्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे वर्तमाने, य इमानेवंरूपान् धर्मान् श्रुत्वा अभिश्रद्धास्यन्ति। भगवानाह- न ते सुभूते सत्त्वा नासत्त्वाः। तत्कस्य हेतोः ? सत्त्वाः सत्त्वा इति सुभूते सर्वे ते सुभूते असत्त्वास्तथागतेन भाषिताः। तेनोच्यन्ते सत्त्वा इति॥२१॥



तत्किं मन्यसे सुभूते-अपि नु अस्ति स कश्चिद्धर्मः, यस्तथागतेनानुत्तरां सम्यक्संबोधिमभिसंबुद्धः ? आयुष्मान् सुभूतिराह-नो हीदं भगवन्। नास्ति स भगवन् कश्चिद्धर्मो यस्तथागतेनानुत्तरां सम्यक्संबोधिमभिसंबुद्धः। भगवानाह-एवमेतत्सुभूते, एवमेतत्। अणुरपि तत्र धर्मो न संविद्यते नोपलभ्यते। तेनोच्यते अनुत्तरा सम्यक्संबोधिरिति॥२२॥



अपि तु खलु पुनः सुभूते समः स धर्मो न तत्र कश्चिद्विषमः। तेनोच्यते अनुत्तरा सम्यक्संबोधिरिति। निरात्मत्वेन निःसत्त्वत्वेन निर्जीवत्वेन निष्पुद्गलत्वेन समा सा अनुत्तरा सम्यक्संबोधिः सर्वैः कुशलैर्धर्मैरभिसंबुध्यते। तत्कस्य हेतोः ? कुशला धर्माः कुशला धर्मा इति सुभूते अधर्माश्चैव ते तथागतेन भाषिताः। तेनोच्यन्ते कुशला धर्मा इति॥२३॥



यश्च खलु पुनः सुभुते स्त्री वा पुरुषो वा यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ सुमेरवः पर्वतराजानः, तावतो राशीन् सप्तानां रत्नानामभिसंहृत्य तथागतेभ्योऽर्हद्भयः सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च कुलपुत्रो वा कुलदुहिता वा इतः प्रज्ञापारमिताया धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो देशयेत्, अस्य सुभूते पुण्यस्कन्धस्य असौ पौर्वकः पुण्यस्कन्धः शततमीमपि कलां नोपैति, यावदुपनिषदमपि न क्षमते॥२४॥

相关阅读:prajñāpāramita-hṛdayam sūtra

Vajracchedika Prajna Paramita 25 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

感谢您访问本站。