horizontal rule

欢迎访问本站。

Vajracchedika Prajna Paramita 20 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

तत्किं मन्यसे सुभूते-अपि नु तथागतस्यैवं भवति-मया सत्त्वाः परिमोचिता इति? न खलु पुनः सुभूते एवं द्रष्टव्यम्। तत्कस्य हेतोः ? नास्ति सुभूते कश्चित्सत्त्वो यस्तथागतेन परिमोचितः। यदि पुनः सुभूते कश्चित्सत्त्वोऽभविष्यद्यस्तथागतेन परिमोचितः स्यात्, स एव तथागतस्यात्मग्राहोऽभविष्यत्, सत्त्वग्राहो जीवग्राहः पुद्गलग्राहोऽभविष्यत्। आत्मग्राह इति सुभूते अग्राह एष तथागतेन भाषितः। स च बालपृथग्जनैरुद्गृहीतः। बालपृथग्जना इति सुभूते अजना एव ते तथागतेन भाषिताः। तेनोच्यन्ते बालपृथग्जना इति॥२५॥



तत्किं मन्यसे सुभूते-लक्षणसंपदा तथागतो द्रष्टव्यः ? सुभूतिराह-नो हीदं भगवन्। यथाहं भगवतो भाषितस्यार्थमाजानामि, न लक्षणसंपदा तथागतो द्रष्टव्यः। भगवानाह-साधु साधु सुभूते, एवमेतत्सुभूते, एवमेतद्यथा वदसि। न लक्षणसंपदा तथागतो द्रष्टव्यः। तत्कस्य हेतोः ? सचेत्पुनः सुभूते लक्षणसंपदा तथागतो द्रष्टव्योऽभविष्यत्, राजापि चक्रवर्ती तथागतोऽभविष्यत्। तस्मान्न लक्षणसंपदा तथागतो द्रष्टव्यः। आयुष्मान् सुभुतिर्भगवन्तमेतदवोचत्-यथाहं भगवतो भाषितस्यार्थमाजानामि, न लक्षणसंपदा तथागतो द्रष्टव्यः॥

अथ खलु भगवांस्तस्यां वेलायामिमे गाथे अभाषत-

ये मां रूपेण चाद्राक्षुर्ये मां घोषेण चान्वगुः।

मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यन्ति ते जनाः॥१॥



धर्मतो बुद्धो द्रष्टव्यो धर्मकाया हि नायकाः।

धर्मता च न विज्ञेया न सा शक्या विजानितुम्॥२॥२६॥



तत्किं मन्यसे सुभूते लक्षणसंपदा तथागतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा ? न खलु पुनस्ते सुभूते एवं द्रष्टव्यम्। तत्कस्य हेतोः ? न हि सुभूते लक्षणसंपदा तथागतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा स्यात्। न खलु पुनस्ते सुभूते कश्चिदेवं वदेत्-बोधिसत्त्वयानसंप्रस्थितैः कस्यचिद्धर्मस्य विनाशः प्रज्ञप्तः उच्छेदो वेति। न खलु पुनस्ते सुभूते एवं द्रष्टव्यम्। तत्कस्य हेतोः ? न बोधिसत्त्वयानसंप्रस्थितैः कस्यचिद्धर्मस्य विनाशः प्रज्ञप्तो नोच्छेदः॥२७॥



यश्च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा गङ्गानदीवालुकासमाँल्लोकधातून् सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भयः सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च बोधिसत्त्वो निरात्मकेष्वनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते, अयमेव ततोनिदानं बहुतरं पुण्यस्कन्धं प्रसवेदप्रमेयमसंख्येयम्। न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन पुण्यस्कन्धः परिग्रहीतव्यः। आयुष्मान् सुभूतिराह- ननु भगवन् बोधिसत्त्वेन पुण्यस्कन्धः परिग्रहीतव्यः ? भगवानाह-परिग्रहीतव्यः सुभूते नो ग्रहीतव्यः। तेनोच्यते परिग्रहीतव्य इति॥२८॥



अपि तु खलु पुनः सुभूते यः कश्चिदेवं वदेत्-तथागतो गच्छति वा आगच्छति वा तिष्ठति वा निषीदति वा, शय्यां वा कल्पयति, न मे सुभूते (स) भाषितस्यार्थमाजानाति। तत्कस्य हेतोः ? तथागत इति सुभूते उच्यते न क्वचिद्गतो न कुतश्चिदागतः। तेनोच्यते तथागतोऽर्हन् सम्यक्संबुद्ध इति॥२९॥

यश्च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा यावन्ति त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरजांसि, तावतां लोकधातूनामेवंरूपं मषिं कुर्यात् यावदेवमसंख्येयेन वीर्येण तद्यथापि नाम परमाणुसंचयः, तत्किं मन्यसे सुभूते-अपि नु बहुः स परमाणुसंचयो भवेत् ? सुभूतिराह-एवमेतद्भगवन्, एवमेतत्सुगत। बहुः स परमाणुसंचयो भवेत्। तत्कस्य हेतोः ? सचेद्भगवन् बहुः परमाणुसंचयोऽभविष्यत्, न भगवानवक्ष्यत्-परमाणुसंचय इति। तत्कस्य हेतोः ? योऽसौ भगवन् परमाणुसंचयस्तथागतेन भाषितः, असंचयः स तथागतेन भाषितः। तेनोच्यते परमाणुसंचय इति। यश्च तथागतेन भाषितस्त्रिसाहस्रमहासाहस्रो लोकधातुरिति, अधातुः स तथागतेन भाषितः। तेनोच्यते त्रिसाहस्रमहासाहस्रो लोकधातुरिति। तत्कस्य हेतोः ? सचेद्भगवन् लोकधातुरभविष्यत्, स एव पिण्डग्राहोऽभविष्यत्। यश्चैव पिण्डग्राहस्तथागतेन भाषितः, अग्राहः स तथागतेन भाषितः। तेनोच्यते पिण्डग्राह इति। भगवानाह- पिण्डग्राहश्चैव सुभूते अव्यवहारोऽनभिलाप्यः। न स धर्मो नाधर्मः। स च बालपृथग्जनैरुद्गृहीतः॥३०॥



तत्कस्य हेतोः ? यो हि कश्चित्सुभूते एवं वदेत्-आत्मदृष्टिस्तथागतेन भाषिता, सत्त्वदृष्टिर्जीवदृष्टिः पुद्गलदृष्टिस्तथागतेन भाषिता, अपि नु स सुभूते सम्यग्वदमानो वदेत् ? सुभूतिराह-नो हीदं भगवन्, नो हीदं सुगत, न सम्यग्वदमानो वदेत्। तत्कस्य हेतोः ? या सा भगवन् आत्मदृष्टिस्तथागतेन भाषिता, अदृष्टिः सा तथागतेन भाषिता। तेनोच्यते आत्मदृष्टिरिति॥



भगवानाह-एवं हि सुभूते बोधिसत्त्वयानसंप्रस्थितेन सर्वधर्मा ज्ञातव्या द्रष्टव्या अधिमोक्तव्याः। तथाच ज्ञातव्या द्रष्टव्या अधिमोक्तव्याः, यथा न धर्मसंज्ञायामपि प्रत्युपतिष्ठेन्नाधर्मसंज्ञायाम्। तत्कस्य हेतोः ? धर्मसंज्ञा धर्मसंज्ञेति सुभूते असंज्ञैषा तथागतेन भाषिता। तेनोच्यते धर्मसंज्ञेति॥३१॥



यश्च खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वोऽप्रमेयानसंख्येयांल्लोकधातून् सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भयः सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च कुलपुत्रो वा कुलदुहिता वा इतः प्रज्ञापारमिताया धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथामुद्गृह्य धारयेद्देशयेद्वाचयेत् पर्यवाप्नुयात्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अयमेव ततोनिदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम्। कथं च संप्रकाशयेत् ? तद्यथाकाशे-



तारका तिमिरं दीपो मायावश्याय बुद्बुदम्।

स्वप्नं च विद्युदभ्रं च एवं द्रष्टव्य संस्कृतम्॥

तथा प्रकाशयेत्, तेनोच्यते संप्रकाशयेदिति॥



इदमवोचद्भगवान् आत्तमनाः। स्थविरसुभूतिस्ते च भिक्षुभिक्षुण्युपासकोपासिकास्ते च बोधिसत्त्वाः सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति॥३२॥



॥आर्यवज्रच्छेदिका भगवती प्रज्ञापारमिता समाप्ता॥


 

相关阅读:prajñāpāramita-hṛdayam sūtra

金瓶梅序 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

感谢您访问本站。